
संस्कृत-उद्घोषणा तथा धोती-कुर्ताधारी क्रीडका आकर्षणं अभवन्
भोपालम्। अद्य महर्षि-मैत्री-क्रिकेट्–६ प्रतियोगितायाः भव्यं गरिमामयं च शुभारम्भः परम्परागत-वातावरणे सम्पन्नः। उद्घाटन-सत्रे केन्द्रीय-संस्कृत-विश्वविद्यालयस्य भोपालस्य निर्देशकः प्रो. हंसधर-झा तथा उप-निर्देशकः प्रो. गोविन्द-पाण्डेयः विशेषरूपेण उपस्थिताः आसन्। अतिथिभिः संस्कृत-भाषायाः भारतीय-परम्परायाश्च संवर्धनार्थं आयोजितस्य अस्य अनूठ-प्रतियोगितायाः प्रशंसा कृत्वा क्रीडकानां उत्साहवर्धनं कृतम्।
उद्घाटन-दिवसे प्रथमः मुकाबलः पाणिनि-गुरुकुलम् एवं मा शशी-गुरुकुलम् इत्येतयोः मध्ये अभवत्, यस्मिन् पाणिनि-गुरुकुलं विजयी अभवत्। अस्मिन् मुकाबले उत्कृष्ट-क्रीडनाय दीपेशः “मैन ऑफ द मैच” इति घोषितः।
ततः द्वितीयः मुकाबलः गांधी-नगर-टीम तथा हिंगलाज-टीम इत्येतयोः मध्ये अभवत्, यस्मिन् गांधी-नगर-टीम विजयी अभवत्। अस्य मुकाबलस्य मैन ऑफ द मैच इति मयंकः चयनितः।
अस्यां प्रतियोगितायां कुलं सप्तविंशतिः (२७) टीमाः भागं गृह्णन्ति। तासु प्रमुखतया
पाणिनि-गुरुकुलम्, मा शशी-गुरुकुलम्, गांधी-नगरम्, हिंगलाज-टीम,
लाल-बहादुर-शास्त्री-राष्ट्रीय-संस्कृत-विश्वविद्यालयः, दिल्ली,
रामटेक् (नागपुरम्),
उज्जैनम्, इन्दौरम्, जबलपुरम्, विदिशा, रायसेनम्, सीहोरम्, बाड़ी, नर्मदापुरम्, नरसिंहपुरम्, गुना
तथा भोपालस्य विविधाः टीमाः सन्ति।
अस्याः प्रतियोगितायाः प्रमुखा विशेषता अस्ति यत् सर्वा उद्घोषणा पूर्णतया संस्कृत-भाषायाम् क्रियते तथा सर्वे क्रीडकाः धोती-कुर्ता धृत्वा क्रीडाङ्गणे अवतरन्ति। अनेन भारतीय-संस्कृतेः क्रीडायाश्च अद्भुतं संगमं दृश्यते। प्रतिदिनं पञ्च मुकाबलाः आयोज्यन्ते तथा अन्तिमः मुकाबलः ९ जनवरी दिने भविष्यति।
प्रतियोगितायां विजेत्री-टीमायै ₹२५,००० रूप्यकाणां नगद-पुरस्कारः तथा सील्ड-पुराणं प्रदास्यते। मैन ऑफ द मैच क्रीडकेभ्यः संस्कृत-सम्बद्धाः पुस्तकानि तथा ग्रन्थाः उपहाररूपेण दीयन्ते।
अस्याः प्रतियोगितायाः मुख्यः उद्देश्यः संस्कृत-भाषायाः, वैदिक-परम्परायाः तथा शास्त्राणां प्रचार-प्रसारः, युवानां भारतीय-संस्कृतेः सह संयोजनं च अस्ति।
मध्यप्रदेशस्य परशुराम-कल्याण-बोर्डस्य अध्यक्षः पण्डितः विष्णु-राजौरिया-महोदयः अस्याः प्रतियोगितायाः संयोजकः अस्ति। आयोजनं वैदिक-ब्राह्मण-युवा-कल्याण-समितिः, भोपालम् इत्यस्याः द्वारा क्रियते। समितेः अध्यक्षः पण्डितः अभिषेक-दुबे, सचिवः अंकुर-पाण्डेयः, कोषाध्यक्षः अवनीश-त्रिवेदी तथा अभिषेक-सुनील-उपाध्यायः सक्रिय-भूमिकां निर्वहन्ति।
कार्यक्रमे क्रीडा-युवा-कल्याण-मन्त्री विश्वास-सारंग-महोदयस्य उपस्थित्या क्रीडकानां उत्साहः द्विगुणितः अभवत्। मन्त्री-महोदयः स्वयमेव क्रीडाङ्गणे अवतर्य चौक-षट्क-प्रहारैः क्रीडकानां मनोबलं वर्धितवान्। तदेव क्षेत्रीय-विधायकः भगवान्-दास-सबनानी-महोदयः अपि क्रीडकान् प्रोत्साहितवान्।
सम्पूर्णे आयोजने परशुराम-कल्याण-बोर्डस्य महत्वपूर्णा भूमिका दृश्यते। बोर्डाध्यक्षः पण्डितः विष्णु-राजौरिया-महोदयः निरन्तरं क्रीडकानां उत्साहवर्धनं कुर्वन्ति। कार्यक्रमे ब्राह्मण-समाजस्य अध्यक्षः राकेश-चतुर्वेदी तथा हिन्दू-उत्सव-समितेः उपाध्यक्षः बच्चन-आचार्यः अपि विशेषरूपेण उपस्थिताः आसन्।



